हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 108 – युद्धकाण्ड अष्टोत्तरशततमः सर्गः (१०८)
॥ शुभाशुभनिमित्तदर्शनम् ॥
स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ १ ॥
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ २ ॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।
प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ॥ ३ ॥
रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।
तमापतन्तं सहसा स्वनवन्तं महास्वनम् ॥ ४ ॥
रथं राक्षसराजस्य नरराजो ददर्श ह ।
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ॥ ५ ॥
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ॥ ६ ॥
तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ॥ ७ ॥
विस्फारयन्वै वेगेन बालचन्द्रनतं धनुः ।
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ८ ॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः ।
यथापसव्यं पतता वेगेन महता पुनः ॥ ९ ॥
समरे हन्तुमात्मानं तथा तेन कृता मतिः ।
तदप्रमादमातिष्ठन्प्रत्युद्गच्छ रथं रिपोः ॥ १० ॥
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ।
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ॥ ११ ॥
रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ।
कामं न त्वं समाधेयः पुरन्दररथोचितः ॥ १२ ॥
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।
परितुष्टः स रामस्य तेन वाक्येन मातलिः ॥ १३ ॥
प्रचोदयामास रथं सुरसारथिसत्तमः ।
अपसव्यं ततः कुर्वन्रावणस्य महारथम् ॥ १४ ॥
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ।
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ॥ १५ ॥
रथप्रतिमुखं रामं सायकैरवधूनयत् ।
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ॥ १६ ॥
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ १७ ॥
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ १८ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ॥ १९ ॥
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
रावणस्य विनाशाय राघवस्य जयाय च ॥ २० ॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि ।
वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ॥ २१ ॥
महद्गृध्रकुलं चास्य भ्रममाणं नभःस्थले ।
येनयेन रथो याति तेनतेन प्रधावति ॥ २२ ॥
सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।
दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुन्धरा ॥ २३ ॥
सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।
विषादयंस्ते रक्षांसि रावणस्य तदाऽहिताः ॥ २४ ॥
रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।
रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ २५ ॥
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ।
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥ २६ ॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २७ ॥
प्रतिकूलं ववौ वायू रणे पांसून्समाकिरन् ।
तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ २८ ॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।
दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ॥ २९ ॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।
पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ ३० ॥
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।
निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥ ३१ ॥
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि सन्ततम् ।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ ३२ ॥
एवंप्रकारा बहवः समुत्पाता भयावहाः ।
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥ ३३ ॥
रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ ३४ ॥
निमित्तानि च सौम्यानि राघवः स्वजयाय च ।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥ ३५ ॥
ततो निरीक्ष्यात्मगतानि राघवो
रणे निमित्तानि निमित्तकोविदः ।
जगाम हर्षं च परां च निर्वृत्तिं
चकार युद्धे ह्यधिकं च विक्रमम् ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.